Avadhutha Gita - Original Sanskrit Text
 

Home / Shastras

 

     
 

अवधूतगीता

अथ प्रथमोऽध्यायः॥

ईश्वरानुग्रहादेव पुंसामद्वैतवासना।
महद्भयपरित्राणाद्विप्राणामुपजायते॥१॥

येनेदं पूरितं सर्वमात्मनैवाअत्मनात्मनि।
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम्॥२॥

पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम्।
कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः॥३॥

आत्मैव केवलं सर्वं भेदाभेदो न विद्यते।
अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे॥४॥

वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च।
अहमात्मा निराकारः सर्वव्यापी स्वभावतः॥५॥

यो वै सर्वात्मको देवो निष्कलो गगनोपमः।
स्वभावनिर्मलः शुद्धः स एवायं न संशयः॥६॥

अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः।
सुखं दुःखं न जानामि कथं कस्यापि वर्तते॥७॥

न मानसं कर्म शुभाशुभं मे न कायिकं कर्म शुभाशुभं मे।
न वाचिकं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम्॥८॥

मनो वै गगनाकारं मनो वै सर्वतोमुखम्।
मनोऽतीतं मनः सर्वं न मनः परमार्थतः॥९॥

अहमेकमिदं सर्वं व्योमातीतं निरन्तरम्।
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम्॥१०॥

त्वमेवमेकं हि कथं न बुध्यसे समं हि सर्वेषु विमृष्टमव्ययम्।
सदोदितोऽसि त्वमखण्डितः प्रभो दिवा च नक्तं च कथं हि मन्यसे॥११॥

आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम्।
अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम्॥१२॥

न जातो न मृतोऽसि त्वं न ते देहः कदाचन।
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः॥१३॥

स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा।
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत्॥१४॥

संयोगश्च वियोगश्च वर्तते न च ते न मे।
न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम्॥१५॥

शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः।
त्वमेव परमं तत्त्वमतः किं परितप्यसे॥१६॥

जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ।
कथं रोदिषि रे वत्स नामरूपं न ते न मे॥१७॥

अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत्।
अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव॥१८॥

त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम्।
न ते च रागो ह्यथवा विरागः कथं हि सन्तप्यसि कामकामतः॥१९॥

वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम्।
अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः॥२०॥

साकारमनृतं विद्धि निराकारं निरन्तरम्।
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः॥२१॥

एकमेव समं तत्त्वं वदन्ति हि विपश्चितः।
रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते॥२२॥

अनात्मरूपं च कथं समाधि- रात्मस्वरूपं च कथं समाधिः।
अस्तीति नास्तीति कथं समाधि- र्मोक्षस्वरूपं यदि सर्वमेकम्॥२३॥

विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः।
जानामीह न जानामीत्यात्मानं मन्यसे कथम्॥२४॥

तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः।
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम्॥२५॥

आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम्।
ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम्॥२६॥

शिवं न जानामि कथं वदामि शिवं न जानामि कथं भजामि।
अहं शिवश्चेत्परमार्थथतत्त्वं समस्वरूपं गगनोपमं च॥२७॥

नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम्।
ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत्॥२८॥

अनन्तरूपं न हि वस्तु किंचि- त्तत्त्वस्वरूपं न हि वस्तु किंचित्।
आत्मैकरूपं परमार्थतत्त्वं न हिंसको वापि न चाप्यहिंसा॥२९॥

विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम्।
विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः॥३०॥

घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम्।
शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे॥३१॥

न घटो न घटाकाशो न जीवो न जीवविग्रहः।
केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम्॥३२॥

सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम्।
सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः॥३३॥

वेदा न लोका न सुरा न यज्ञा वर्णाश्रमो नैव कुलं न जातिः।
न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम्॥३४॥

व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि।
प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम्॥३५॥

अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे।
समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम्॥३६॥

श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम्।
कथयन्ति कथं तत्त्वं मनोवाचामगोचरम्॥३७॥

यदाऽनृतमिदं सर्वं देहादिगगनोपमम्।
तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा॥३८॥

परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे।
व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत्॥३९॥

यत्करोमि यदश्नामि यज्जुहोमि ददामि यत्।
एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः॥४०॥

सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम्।
सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम्॥४१॥

तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः।
असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम्॥४२॥

मायाऽमाया कथं तात छायाऽछाया न विद्यते।
तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम्॥४३॥

आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन।
स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः॥४४॥

महदादि जगत्सर्वं न किंचित्प्रतिभाति मे।
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः॥४५॥

जानामि सर्वथा सर्वमहमेको निरन्तरम्।
निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम्॥४६॥

न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना।
सानन्दो वा निरानन्दमात्मानं मन्यसे कथम्॥४७॥

षडङ्गयोगान्न तु नैव शुद्धं मनोविनाशान्न तु नैव शुद्धम्।
गुरूपदेशान्न तु नैव शुद्धं स्वयं च तत्त्वं स्वयमेव बुद्धम्॥४८॥

न हि पञ्चात्मको देहो विदेहो वर्तते न हि।
आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम्॥४९॥

न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक्।
न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः॥५०॥

यथा जलं जले न्यस्तं सलिलं भेदवर्जितम्।
प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे॥५१॥

यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन।
साकारं च निराकारमात्मानं मन्यसे कथम्॥५२॥

जानामि ते परं रूपं प्रत्यक्षं गगनोपमम्।
यथा परं हि रूपं यन्मरीचिजलसन्निभम्॥५३॥

न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया।
विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः॥५४॥

विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम्।
अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे॥५५॥

कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव।
पिब वत्स कलातीतमद्वैतं परमामृतम्॥५६॥

नैव बोधो न चाबोधो न बोधाबोध एव च।
यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत्॥५७॥

ज्ञानं न तर्को न समाधियोगो न देशकालौ न गुरूपदेशः।
स्वभावसंवित्तरहं च तत्त्व- माकाशकल्पं सहजं ध्रुवं च॥५८॥

न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम्।
विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम॥५९॥

यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः।
अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम्॥६०॥

स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम्।
अहो मायामहामोहो द्वैताद्वैतविकल्पना॥६१॥

साकारं च निराकारं नेति नेतीति सर्वदा।
भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः॥६२॥

न ते च माता च पिता च बन्धुः न ते च पत्नी न सुतश्च मित्रम्।
न पक्षपाती न विपक्षपातः कथं हि संतप्तिरियं हि चित्ते॥६३॥

दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि।
विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः॥६४॥

नाविभक्तं विभक्तं च न हि दुःखसुखादि च।
न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम्॥६५॥

नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना।
न मे देहो विदेहो वा निर्ममेति ममेति किम्॥६६॥

न मे रागादिको दोषो दुःखं देहादिकं न मे।
आत्मानं विद्धि मामेकं विशालं गगनोपमम्॥६७॥

सखे मनः किं बहुजल्पितेन सखे मनः सर्वमिदं वितर्क्यम्।
यत्सारभूतं कथितं मया ते त्वमेव तत्त्वं गगनोपमोऽसि॥६८॥

येन केनापि भावेन यत्र कुत्र मृता अपि।
योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे॥६९॥

तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन्।
समकाले तनुं मुक्तः कैवल्यव्यापको भवेत्॥७०॥

धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम्।
मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम्॥७१॥

अतीतानागतं कर्म वर्तमानं तथैव च।
न करोमि न भुञ्जामि इति मे निश्चला मतिः॥७२॥

शून्यागारे समरसपूत- स्तिष्ठन्नेकः सुखमवधूतः।
चरति हि नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम्॥७३॥

त्रितयतुरीयं नहि नहि यत्र विन्दति केवलमात्मनि तत्र।
धर्माधर्मौ नहि नहि यत्र बद्धो मुक्तः कथमिह तत्र॥७४॥

विन्दति विन्दति नहि नहि मन्त्रं छन्दोलक्षणं नहि नहि तन्त्रम्।
समरसमग्नो भावितपूतः प्रलपितमेतत्परमवधूतः॥७५॥

सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते।
स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम्॥७६॥

इति प्रथमोऽध्यायः॥१॥
 

अथ द्वितीयोऽध्यायः॥

बालस्य वा विषयभोगरतस्य वापि मूर्खस्य सेवकजनस्य गृहस्थितस्य।
एतद्गुरोः किमपि नैव न चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम्॥१॥

नैवात्र काव्यगुण एव तु चिन्तनीयो ग्राह्यः परं गुणवता खलु सार एव।
सिन्दूरचित्ररहिता भुवि रूपशून्या पारं न किं नयति नौरिह गन्तुकामान्॥२॥

प्रयत्नेन विना येन निश्चलेन चलाचलम्।
ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम्॥३॥

अयत्नाछालयेद्यस्तु एकमेव चराचरम्।
सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम॥४॥

अहमेव परं यस्मात्सारात्सारतरं शिवम्।
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम्॥५॥

सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम्।
संपूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम्॥६॥

प्रमादेन न सन्देहः किं करिष्यामि वृत्तिमान्।
उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले॥७॥

महदादीनि भूतानि समाप्यैवं सदैव हि।
मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च॥८॥

कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले।
प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे॥९॥

सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम्।
मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम्॥१०॥

ईदृशं सहजं यत्र अहं तत्र कथं भवेत्।
त्वमेव हि कथं तत्र कथं तत्र चराचरम्॥११॥

गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम्।
चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च॥१२॥

पृथिव्यां चरितं नैव मारुतेन च वाहितम्।
वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम्॥१३॥

आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित्।
स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम्॥१४॥

सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः।
आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत्॥१५॥

सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत्।
तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः॥१६॥

विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च।
एकमेव विनाशाय ह्यमोघं सहजामृतम्॥१७॥

भावगम्यं निराकारं साकारं दृष्टिगोचरम्।
भावाभावविनिर्मुक्तमन्तरालं तदुच्यते॥१८॥

बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते।
अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत्॥१९॥

भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं च मध्यगम्।
मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत्॥२०॥

पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः।
तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः॥२१॥

अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः।
दाता च धीरतामेति गीयते नामकोटिभिः॥२२॥

गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः।
यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात्॥२३॥

रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः।
दृढबोधश्च धीरश्च स गच्छेत्परमं पदम्॥२४॥

घटे भिन्ने घटाकाश आकाशे लीयते यथा।
देहाभावे तथा योगी स्वरूपे परमात्मनि॥२५॥

उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः।
न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः॥२६॥

या गतिः कर्मयुक्तानां सा च वागिन्द्रियाद्वदेत्।
योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता॥२७॥

एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम्।
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते॥२८॥

तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा।
न योगी पश्यते गर्भं परे ब्रह्मणि लीयते॥२९॥

सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेष्टं लिप्यते नैव दोषैः।
सकृदपि तदभावात्कर्म किंचिन्नकुर्यात् तदपि न च विबद्धः संयमी वा तपस्वी॥३०॥

निरामयं निष्प्रतिमं निराकृतिं निराश्रयं निर्वपुषं निराशिषम्।
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम्॥३१॥

वेदो न दीक्षा न च मुण्डनक्रिया गुरुर्न शिष्यो न च यन्त्रसम्पदः।
मुद्रादिकं चापि न यत्र भासते तमीशमात्मानमुपैति शाश्वतम्॥३२॥

न शाम्भवं शाक्तिकमानवं न वा पिण्डं च रूपं च पदादिकं न वा।
आरम्भनिष्पत्तिघटादिकं च नो तमीशमात्मानमुपैति शाश्वतम्॥३३॥

यस्य स्वरूपात्सचराचरं जग- दुत्पद्यते तिष्ठति लीयतेऽपि वा।
पयोविकारादिव फेनबुद्बुदा- स्तमीशमात्मानमुपैति शाश्वतम्॥३४॥

नासानिरोधो न च दृष्टिरासनं बोधोऽप्यबोधोऽपि न यत्र भासते।
नाडीप्रचारोऽपि न यत्र किञ्चि- त्तमीशमात्मानमुपैति शाश्वतम्॥३५॥

नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता।
मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम्॥३६॥

सुसंयमी वा यदि वा न संयमी सुसंग्रही वा यदि वा न संग्रही।
निष्कर्मको वा यदि वा सकर्मक- स्तमीशमात्मानमुपैति शाश्वतम्॥३७॥

मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि न भूतपञ्चकम्।
अहंकृतिश्चापि वियत्स्वरूपकं तमीशमात्मानमुपैति शाश्वतम्॥३८॥

विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते।
शौचं न वाशौचमलिङ्गभावना सर्वं विधेयं यदि वा निषिध्यते॥३९॥

मनो वचो यत्र न शक्तमीरितुं नूनं कथं तत्र गुरूपदेशता।
इमां कथामुक्तवतो गुरोस्त- द्युक्तस्य तत्त्वं हि समं प्रकाशते॥४०॥

इति द्वितीयोऽध्यायः॥२॥
 

अथ तृतीयोऽध्यायः॥

गुणविगुणविभागो वर्तते नैव किञ्चित् रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम्।
गुणविगुणविहीनं व्यापकं विश्वरूपं कथमहमिह वन्दे व्योमरूपं शिवं वै॥१॥

श्वेतादिवर्णरहितो नियतं शिवश्च कार्यं हि कारणमिदं हि परं शिवश्च।
एवं विकल्परहितोऽहमलं शिवश्च स्वात्मानमात्मनि सुमित्र कथं नमामि॥२॥

निर्मूलमूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहम्।
निर्दीपदीपरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम्॥३॥

निष्कामकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि।
निःसारसाररहितं च कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम्॥४॥

अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि।
नित्यं त्वनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम्॥५॥

स्थूलं हि नो नहि कृशं न गतागतं हि आद्यन्तमध्यरहितं न परापरं हि।
सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्॥६॥

संविद्धि सर्वकरणानि नभोनिभानि संविद्धि सर्वविषयांश्च नभोनिभांश्च।
संविद्धि चैकममलं न हि बन्धमुक्तं ज्ञानामृतं समरसं गगनोपमोऽहम्॥७॥

दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात।
आसन्नरूपगहनो न भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम्॥८॥

निष्कर्मदहनो ज्वलनो भवामि निर्दुःखदुःखदहनो ज्वलनो भवामि।
निर्देहदेहदहनो ज्वलनो भवामि ज्ञानामृतं समरसं गगनोपमोऽहम्॥९॥

निष्पापपापदहनो हि हुताशनोऽहं निर्धर्मधर्मदहनो हि हुताशनोऽहम्।
निर्बन्धबन्धदहनो हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम्॥१०॥

निर्भावभावरहितो न भवामि वत्स निर्योगयोगरहितो न भवामि वत्स।
निश्चित्तचित्तरहितो न भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम्॥११॥

निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः।
निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम्॥१२॥

संसारसन्ततिलता न च मे कदाचित् सन्तोषसन्ततिसुखो न च मे कदाचित्।
अज्ञानबन्धनमिदं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम्॥१३॥

संसारसन्ततिरजो न च मे विकारः सन्तापसन्ततितमो न च मे विकारः।
सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम्॥१४॥

सन्तापदुःखजनको न विधिः कदाचित् सन्तापयोगजनितं न मनः कदाचित्।
यस्मादहङ्कृतिरियं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम्॥१५॥

निष्कम्पकम्पनिधनं न विकल्पकल्पं स्वप्नप्रबोधनिधनं न हिताहितं हि।
निःसारसारनिधनं न चराचरं हि ज्ञानामृतं समरसं गगनोपमोऽहम्॥१६॥

नो वेद्यवेदकमिदं न च हेतुतर्क्यं वाचामगोचरमिदं न मनो न बुद्धिः।
एवं कथं हि भवतः कथयामि तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्॥१७॥

निर्भिन्नभिन्नरहितं परमार्थतत्त्व- मन्तर्बहिर्न हि कथं परमार्थतत्त्वम्।
प्राक्सम्भवं न च रतं नहि वस्तु किञ्चित् ज्ञानामृतं समरसं गगनोपमोऽहम्॥१८॥

रागादिदोषरहितं त्वहमेव तत्त्वं दैवादिदोषरहितं त्वहमेव तत्त्वम्।
संसारशोकरहितं त्वहमेव तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्॥१९॥

स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयं यदि च नेति कथं दिशश्च।
शान्तं पदं हि परमं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्॥२०॥

दीर्घो लघुः पुनरितीह नमे विभागो विस्तारसंकटमितीह न मे विभागः।
कोणं हि वर्तुलमितीह न मे विभागो ज्ञानामृतं समरसं गगनोपमोऽहम्॥२१॥

मातापितादि तनयादि न मे कदाचित् जातं मृतं न च मनो न च मे कदाचित्।
निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्॥२२॥

शुद्धं विशुद्धमविचारमनन्तरूपं निर्लेपलेपमविचारमनन्तरूपम्।
निष्खण्डखण्डमविचारमनन्तरूपं ज्ञानामृतं समरसं गगनोपमोऽहम्॥२३॥

ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति।
यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्॥२४॥

निर्नेति नेति विमलो हि कथं वदामि निःशेषशेषविमलो हि कथं वदामि।
निर्लिङ्गलिङ्गविमलो हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम्॥२५॥

निष्कर्मकर्मपरमं सततं करोमि निःसङ्गसङ्गरहितं परमं विनोदम्।
निर्देहदेहरहितं सततं विनोदं ज्ञानामृतं समरसं गगनोपमोऽहम्॥२६॥

मायाप्रपञ्चरचना न च मे विकारः। कौटिल्यदम्भरचना न च मे विकारः।
सत्यानृतेति रचना न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम्॥२७॥

सन्ध्यादिकालरहितं न च मे वियोगो- ह्यन्तः प्रबोधरहितं बधिरो न मूकः।
एवं विकल्परहितं न च भावशुद्धं ज्ञानामृतं समरसं गगनोपमोऽहम्॥२८॥

निर्नाथनाथरहितं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै।
संविद्धि सर्वविगतं हि निराकुअलं वै ज्ञानामृतं समरसं गगनोपमोऽहम्॥२९॥

कान्तारमन्दिरमिदं हि कथं वदामि संसिद्धसंशयमिदं हि कथं वदामि।
एवं निरन्तरसमं हि निराकुलं वै ज्ञानामृतं समरसं गगनोपमोऽहम्॥३०॥

निर्जीवजीवरहितं सततं विभाति निर्बीजबीजरहितं सततं विभाति।
निर्वाणबन्धरहितं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम्॥३१॥

सम्भूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति।
संहारवर्जितमिअदं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम्॥३२॥

उल्लेखमात्रमपि ते न च नामरूपं निर्भिन्नभिन्नमपि ते न हि वस्तु किञ्चित्।
निर्लज्जमानस करोषि कथं विषादं ज्ञानामृतं समरसं गगनोपमोऽहम्॥३३॥

किं नाम रोदिषि सखे न जरा न मृत्युः किं नाम रोदिषि सखे न च जन्म दुःखम्।
किं नाम रोदिषि सखे न च ते विकारो ज्ञानामृतं समरसं गगनोपमोऽहम्॥३४॥

किं नाम रोदिषि सखे न च ते स्वरूपं किं नाम रोदिषि सखे न च ते विरूपम्।
किं नाम रोदिषि सखे न च ते वयांसि ज्ञानामृतं समरसं गगनोपमोऽहम्॥३५॥

किं नाम रोदिषि सखे न च ते वयांसि किं नाम रोदिषि सखे न च ते मनांसि।
किं नाम रोदिषि सखे न तवेन्द्रियाणि ज्ञानामृतं समरसं गगनोपमोऽहम्॥३६॥

किं नाम रोदिषि सखे न च तेऽस्ति कामः किं नाम रोदिषि सखे न च ते प्रलोभः।
किं नाम रोदिषि सखे न च ते विमोहो ज्ञानामृतं समरसं गगनोपमोऽहम्॥३७॥

ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते हि पत्नी।
ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं समरसं गगनोपमोऽहम्॥३८॥

लिङ्गप्रपञ्चजनुषी न च ते न मे च निर्लज्जमानसमिदं च विभाति भिन्नम्।
निर्भेदभेदरहितं न च ते न मे च ज्ञानामृतं समरसं गगनोपमोऽहम्॥३९॥

नो वाणुमात्रमपि ते हि विरागरूपं नो वाणुमात्रमपि ते हि सरागरूपम्।
नो वाणुमात्रमपि ते हि सकामरूपं ज्ञानामृतं समरसं गगनोपमोऽहम्॥४०॥

ध्याता न ते हि हृदये न च ते समाधि- र्ध्यानं न ते हि हृदये न बहिः प्रदेशः।
ध्येयं न चेति हृदये न हि वस्तु कालो ज्ञानामृतं समरसं गगनोपमोऽहम्॥४१॥

यत्सारभूतमखिलं कथितं मया ते न त्वं न मे न महतो न गुरुर्न न शिष्यः।
स्वच्छन्दरूपसहजं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम्॥४२॥

कथमिह परमार्थं तत्त्वमानन्दरूपं कथमिह परमार्थं नैवमानन्दरूपम्।
कथमिह परमार्थं ज्ञानविज्ञानरूपं यदि परमहमेकं वर्तते व्योमरूपम्॥४३॥

दहनपवनहीनं विद्धि विज्ञानमेक- मवनिजलविहीनं विद्धि विज्ञानरूपम्।
समगमनविहीनं विद्धि विज्ञानमेकं गगनमिव विशालं विद्धि विज्ञानमेकम्॥४४॥

न शून्यरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम्।
रूपं विरूपं न भवामि किञ्चित् स्वरूपरूपं परमार्थतत्त्वम्॥४५॥

मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा।
त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम्॥४६॥

इति तृतीयोऽध्यायः॥३॥
 

अथ चतुर्थोऽध्यायः॥

नावाहनं नैव विसर्जनं वा पुष्पाणि पत्राणि कथं भवन्ति।
ध्यानानि मन्त्राणि कथं भवन्ति समासमं चैव शिवार्चनं च॥१॥

न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः।
न केवलं योगवियोगमुक्तः स वै विमुक्तो गगनोपमोऽहम्॥२॥

सञ्जायते सर्वमिदं हि तथ्यं सञ्जायते सर्वमिदं वितथ्यम्।
एवं विकल्पो मम नैव जातः स्वरूपनिर्वाणमनामयोऽहम्॥३॥

न साञ्जनं चैव निरञ्जनं वा न चान्तरं वापि निरन्तरं वा।
अन्तर्विभन्नं न हि मे विभाति स्वरूपनिर्वाणमनामयोऽहम्॥४॥

अबोधबोधो मम नैव जातो बोधस्वरूपं मम नैव जातम्।
निर्बोधबोधं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥५॥

न धर्मयुक्तो न च पापयुक्तो न बन्धयुक्तो न च मोक्षयुक्तः।
युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनामयोऽहम्॥६॥

परापरं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रम्।
हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥७॥

नोपासको नैवमुपास्यरूपं न चोपदेशो न च मे क्रिया च।
संवित्स्वरूपं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥८॥

नो व्यापकं व्याप्यमिहास्ति किञ्चित् न चालयं वापि निरालयं वा।
अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥९॥

न ग्राहको ग्राह्यकमेव किञ्चित् न कारणं वा मम नैव कार्यम्।
अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१०॥

न भेदकं वापि न चैव भेद्यं न वेदकं वा मम नैव वेद्यम्।
गतागतं तात कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥११॥

न चास्ति देहो न च मे विदेहो बुद्दिर्मनो मे न हि चेन्द्रियाणि।
रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१२॥

उल्लेखमात्रं न हि भिन्नमुच्चै- रुल्लेखमात्रं न तिरोहितं वै।
समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१३॥

जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो न जातः।
जयाजयौ मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१४॥

अमूर्तमूर्तिर्न च मे कदाचि- दाद्यन्तमध्यं न च मे कदाचित्।
बलाबलं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१५॥

मृतामृतं वापि विषाविषं च सञ्जायते तात न मे कदाचित्।
अशुद्धशुद्धं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१६॥

स्वप्नः प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित्।
अतुर्यतुर्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१७॥

संविद्धि मां सर्वविसर्वमुक्तं माया विमाया न च मे कदाचित्।
सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१८॥

संविद्धि मां सर्वसमाधियुक्तं संविद्धि मां लक्ष्यविलक्ष्यमुक्तम्।
योगं वियोगं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥१९॥

मूर्खोऽपि नाहं न च पण्डितोऽहं मौनं विमौनं न च मे कदाचित्।
तर्कं वितर्कं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥२०॥

पिता च माता च कुलं न जाति- र्जन्मादि मृत्युर्न च मे कदाचित्।
स्नेहं विमोहं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥२१॥

अस्तं गतो नैव सदोदितोऽहं तेजोवितेजो न च मे कदाचित्।
सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम्॥२२॥

असंशयं विद्धि निराकुलं मां असंशयं विद्धि निरन्तरं माम्।
असंशयं विद्धि निरञ्जनं मां स्वरूपनिर्वाणमनामयोऽहम्॥२३॥

ध्यानानि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति।
त्यागामृतं तात पिबन्ति धीराः स्वरूपनिर्वाणमनामयोऽहम्॥२४॥

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र।
समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः॥२५॥

इति चतुर्थोऽध्यायः॥४॥
 

अथ पञ्चमोध्यायः॥

ॐ इति गदितं गगनसमं तत् न परापरसारविचार इति।
अविलासविलासनिराकरणं कथमक्षरबिन्दुसमुच्चरणम्॥१॥

इति तत्त्वमसिप्रभृतिश्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि।
त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्॥२॥

अधऊर्ध्वविवर्जितसर्वसमं बहिरन्तरवर्जितसर्वसमम्।
यदि चैकविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्॥३॥

न हि कल्पितकल्पविचार इति न हि कारणकार्यविचार इति।
पदसन्धिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्॥४॥

न हि बोधविबोधसमाधिरिति न हि देशविदेशसमाधिरिति।
न हि कालविकालसमाधिरिति किमु रोदिषि मानसि सर्वसमम्॥५॥

न हि कुम्भनभो न हि कुम्भ इति न हि जीववपुर्न हि जीव इति।
न हि कारणकार्यविभाग इति किमु रोदिषि मानसि सर्वसमम्॥६॥

इह सर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति।
न हि वर्तुलकोणविभाग इति किमु रोदिषि मानसि सर्वसमम्॥७॥

इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति।
इह सर्वविसर्वविहीन इति किमु रोदिषि मानसि सर्वसमम्॥८॥

न हि भिन्नविभिन्नविचार इति बहिरन्तरसन्धिविचार इति।
अरिमित्रविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्॥९॥

न हि शिष्यविशिष्यस्वरूपैति न चराचरभेदविचार इति।
इह सर्वनिरन्तरमोक्षपदं किमु रोदिषि मानसि सर्वसमम्॥१०॥

ननु रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति।
ननु सर्गविसर्गविहीन इति किमु रोदिषि मानसि सर्वसमम्॥११॥

न गुणागुणपाशनिबन्ध इति मृतजीवनकर्म करोमि कथम्।
इति शुद्धनिरञ्जनसर्वसमं किमु रोदिषि मानसि सर्वसमम्॥१२॥

इह भावविभावविहीन इति इह कामविकामविहीन इति।
इह बोधतमं खलु मोक्षसमं किमु रोदिषि मानसि सर्वसमम्॥१३॥

इह तत्त्वनिरन्तरतत्त्वमिति न हि सन्धिविसन्धिविहीन इति।
यदि सर्वविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्॥१४॥

अनिकेतकुटी परिवारसमं इहसङ्गविसङ्गविहीनपरम्।
इह बोधविबोधविहीनपरं किमु रोदिषि मानसि सर्वसमम्॥१५॥

अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति।
यदि केवलमात्मनि सत्यमिति किमु रोदिषि मानसि सर्वसमम्॥१६॥

इह सर्वसमं खलु जीव इति इह सर्वनिरन्तरजीव इति।
इह केवलनिश्चलजीव इति किमु रोदिषि मानसि सर्वसमम्॥१७॥

अविवेकविवेकमबोध इति अविकल्पविकल्पमबोध इति।
यदि चैकनिरन्तरबोध इति किमु रोदिषि मानसि सर्वसमम्॥१८॥

न हि मोक्षपदं न हि बन्धपदं न हि पुण्यपदं न हि पापपदम्।
न हि पूर्णपदं न हि रिक्तपदं किमु रोदिषि मानसि सर्वसमम्॥१९॥

यदि वर्णविवर्णविहीनसमं यदि कारणकार्यविहीनसमम्।
यदिभेदविभेदविहीनसमं किमु रोदिषि मानसि सर्वसमम्॥२०॥

इह सर्वनिरन्तरसर्वचिते इह केवलनिश्चलसर्वचिते।
द्विपदादिविवर्जितसर्वचिते किमु रोदिषि मानसि सर्वसमम्॥२१॥

अतिसर्वनिरन्तरसर्वगतं अतिनिर्मलनिश्चलसर्वगतम्।
दिनरात्रिविवर्जितसर्वगतं किमु रोदिषि मानसि सर्वसमम्॥२२॥

न हि बन्धविबन्धसमागमनं न हि योगवियोगसमागमनम्।
न हि तर्कवितर्कसमागमनं किमु रोदिषि मानसि सर्वसमम्॥२३॥

इह कालविकालनिराकरणं अणुमात्रकृशानुनिराकरणम्।
न हि केवलसत्यनिराकरणं किमु रोदिषि मानसि सर्वसमम्॥२४॥

इह देहविदेहविहीन इति ननु स्वप्नसुषुप्तिविहीनपरम्।
अभिधानविधानविहीनपरं किमु रोदिषि मानसि सर्वसमम्॥२५॥

गगनोपमशुद्धविशालसमं अतिसर्वविवर्जितसर्वसमम्।
गतसारविसारविकारसमं किमु रोदिषि मानसि सर्वसमम्॥२६॥

इह धर्मविधर्मविरागतर- मिह वस्तुविवस्तुविरागतरम्।
इह कामविकामविरागतरं किमु रोदिषि मानसि सर्वसमम्॥२७॥

सुखदुःखविवर्जितसर्वसम- मिह शोकविशोकविहीनपरम्।
गुरुशिष्यविवर्जिततत्त्वपरं किमु रोदिषि मानसि सर्वसमम्॥२८॥

न किलाङ्कुरसारविसार इति न चलाचलसाम्यविसाम्यमिति।
अविचारविचारविहीनमिति किमु रोदिषि मानसि सर्वसमम्॥२९॥

इह सारसमुच्चयसारमिति। कथितं निजभावविभेद इति।
विषये करणत्वमसत्यमिति किमु रोदिषि मानसि सर्वसमम्॥३०॥

बहुधा श्रुतयः प्रवदन्ति यतो वियदादिरिदं मृगतोयसमम्।
यदि चैकनिरन्तरसर्वसमं किमु रोदिषि मानसि सर्वसमम्॥३१॥

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र।
समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः॥३२॥

इति पञ्चमोऽध्यायः॥५॥
 

अथ षष्ठमोऽध्यायः॥

बहुधा श्रुतयः प्रवदन्ति वयं वियदादिरिदं मृगतोयसमम्।
यदि चैकनिरन्तरसर्वशिव- मुपमेयमथोह्युपमा च कथम्॥१॥

अविभक्तिविभक्तिविहीनपरं ननु कार्यविकार्यविहीनपरम्।
यदि चैकनिरन्तरसर्वशिवं यजनं च कथं तपनं च कथम्॥२॥

मन एव निरन्तरसर्वगतं ह्यविशालविशालविहीनपरम्।
मन एव निरन्तरसर्वशिवं मनसापि कथं वचसा च कथम्॥३॥

दिनरात्रिविभेदनिराकरण- मुदितानुदितस्य निराकरणम्।
यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम्॥४॥

गतकामविकामविभेद इति गतचेष्टविचेष्टविभेद इति।
यदि चैकनिरन्तरसर्वशिवं बहिरन्तरभिन्नमतिश्च कथम्॥५॥

यदि सारविसारविहीन इति यदि शून्यविशून्यविहीन इति।
यदि चैकनिरन्तरसर्वशिवं प्रथमं च कथं चरमं च कथम्॥६॥

यदिभेदविभेदनिराकरणं यदि वेदकवेद्यनिराकरणम्।
यदि चैकनिरन्तरसर्वशिवं तृतीयं च कथं तुरीयं च कथम्॥७॥

गदिताविदितं न हि सत्यमिति विदिताविदितं नहि सत्यमिति।
यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनांसि कथम्॥८॥

गगनं पवनो न हि सत्यमिति धरणी दहनो न हि सत्यमिति।
यदि चैकनिरन्तरसर्वशिवं जलदश्च कथं सलिलं च कथम्॥९॥

यदि कल्पितलोकनिराकरणं यदि कल्पितदेवनिराकरणम्।
यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारमतिश्च कथम्॥१०॥

मरणामरणं हि निराकरणं करणाकरणं हि निराकरणम्।
यदि चैकनिरन्तरसर्वशिवं गमनागमनं हि कथं वदति॥११॥

प्रकृतिः पुरुषो न हि भेद इति न हि कारणकार्यविभेद इति।
यदि चैकनिरन्तरसर्वशिवं पुरुषापुरुषं च कथं वदति॥१२॥

तृतीयं न हि दुःखसमागमनं न गुणाद्द्वितीयस्य समागमनम्।
यदि चैकनिरन्तरसर्वशिवं स्थविरश्च युवा च शिशुश्च कथम्॥१३॥

ननु आश्रमवर्णविहीनपरं ननु कारणकर्तृविहीनपरम्।
यदि चैकनिरन्तरसर्वशिव- मविनष्टविनष्टमतिश्च कथम्॥१४॥

ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति।
यदि चैकनिरन्तरसर्वशिव- मविनाशि विनाशि कथं हि भवेत्॥१५॥

पुरुषापुरुषस्य विनष्टमिति वनितावनितस्य विनष्टमिति।
यदि चैकनिरन्तरसर्वशिव- मविनोदविनोदमतिश्च कथम्॥१६॥

यदि मोहविषादविहीनपरो यदि संशयशोकविहीनपरः।
यदि चैकनिरन्तरसर्वशिव- महमेति ममेति कथं च पुनः॥१७॥

ननु धर्मविधर्मविनाश इति ननु बन्धविबन्धविनाश इति।
यदि चैकनिरन्तरसर्वशिवं- मिहदुःखविदुःखमतिश्च कथम्॥१८॥

न हि याज्ञिकयज्ञविभाग इति न हुताशनवस्तुविभाग इति।
यदि चैकनिरन्तरसर्वशिवं वद कर्मफलानि भवन्ति कथम्॥१९॥

ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति।
यदि चैकनिरन्तरसर्वशिवं ननु रागविरागमतिश्च कथम्॥२०॥

न हि मोहविमोहविकार इति न हि लोभविलोभविकार इति।
यदि चैकनिरन्तरसर्वशिवं ह्यविवेकविवेकमतिश्च कथम्॥२१॥

त्वमहं न हि हन्त कदाचिदपि कुलजातिविचारमसत्यमिति।
अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्॥२२॥

गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्ण इति।
अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्॥२३॥

न हि कल्पितदेहविभाग इति न हि कल्पितलोकविभाग इति।
अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्॥२४॥

सरजो विरजो न कदाचिदपि ननु निर्मलनिश्चलशुद्ध इति।
अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्॥२५॥

न हि देहविदेहविकल्प इति अनृतं चरितं न हि सत्यमिति।
अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम्॥२६॥

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र।
समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः॥२७॥

इति षष्ठमोऽध्यायः॥६॥
 

अथ सप्तमोऽध्यायः॥

रथ्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः।
शून्यागारे तिष्ठति नग्नो शुद्धनिरञ्जनसमरसमग्नः॥१॥

लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः।
केवलतत्त्वनिरञ्जनपूतो वादविवादः कथमवधूतः॥२॥

आशापाशविबन्धनमुक्ताः शौचाचारविवर्जितयुक्ताः।
एवं सर्वविवर्जितशान्त- स्तत्त्वं शुद्धनिरञ्जनवन्तः॥३॥

कथमिह देहविदेहविचारः कथमिह रागविरागविचारः।
निर्मलनिश्चलगगनाकारं स्वयमिह तत्त्वं सहजाकारम्॥४॥

कथमिह तत्त्वं विन्दति यत्र रूपमरूपं कथमिह तत्र।
गगनाकारः परमो यत्र विषयीकरणं कथमिह तत्र॥५॥

गगनाकारनिरन्तरहंस- स्तत्त्वविशुद्धनिरञ्जनहंसः।
एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविभिन्नम्॥६॥

केवलतत्त्वनिरन्तरसर्वं योगवियोगौ कथमिह गर्वम्।
एवं परमनिरन्तरसर्व- मेवं कथमिह सारविसारम्॥७॥

केवलतत्त्वनिरञ्जनसर्वं गगनाकारनिरन्तरशुद्धम्।
एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम्॥८॥

योगवियोगै रहितो योगी भोगविभोगै रहितो भोगी।
एवं चरति हि मन्दं मन्दं मनसा कल्पितसहजानन्दम्॥९॥

बोधविबोधैः सततं युक्तो द्वैताद्वैतैः कथमिह मुक्तः।
सहजो विरजः कथमिह योगी शुद्धनिरञ्जनसमरसभोगी॥१०॥

भग्नाभग्नविवर्जितभग्नो लग्नालग्नविवर्जितलग्नः।
एवं कथमिह सारविसारः समरसतत्त्वं गगनाकारः॥११॥

सततं सर्वविवर्जितयुक्तः सर्वं तत्त्वविवर्जितमुक्तः।
एवं कथमिह जीवितमरणं ध्यानाध्यानैः कथमिह करणम्॥१२॥

इन्द्रजालमिदं सर्वं यथा मरुमरीचिका।
अखण्डितमनाकारो वर्तते केवलः शिवः॥१३॥

धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम्।
कथं रागविरागैश्च कल्पयन्ति विपश्चितः॥१४॥

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र।
समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः॥१५॥

इति सप्तमोऽध्यायः॥७॥
 

अथ अष्टमोऽध्यायः॥

त्वद्यात्रया व्यापकता हता ते ध्यानेन चेतःपरता हता ते।
स्तुत्या मया वाक्परता हता ते क्षमस्व नित्यं त्रिविधापराधान्॥१॥

कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः॥२॥

अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः।
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः॥३॥

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्।
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः॥४॥

अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः।
वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः॥५॥

आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः।
आनन्दे वर्तते नित्यमकारं तस्य लक्षणम्॥६॥

वासना वर्जिता येन वक्तव्यं च निरामयम्।
वर्तमानेषु वर्तेत वकारं तस्य लक्षणम्॥७॥

धूलिधूसरगात्राणि धूतचित्तो निरामयः।
धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम्॥८॥

तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः।
तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम्॥९॥

दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा।
ये पठन्ति च शृण्वन्ति तेषां नैव पुनर्भवः॥१०॥

इति अष्टमोऽध्यायः॥८॥

इति अवधूतगीता समाप्ता॥


 

 

 

 
     

 

 

 

 

 

 

 

 

 

 


© 2010 HinduOnline.co. All Rights Reserved.